________________
नित्योत्सव :
ग्रन्थिकं वेति तृतीयः । आदिमपक्षद्वये पवित्राणि सर्वेषां साधारणानि । अन्तिमे तु पक्षे मूलदेव्याः षोडशनवान्यतराङ्गुलायामसरग्रन्थिकम् महाकामेश्वर्यादीनां तिसृणां त्र्यङ्गुलायामादिकम्, अङ्गदेवीनां षण्णां तत्सङ्ख्याकाङ्गुलायामादिकम्, नित्यानां पञ्चदशानां पञ्चदशाङ्गुलायामादिकम् गुरुपङ्क्तित्रयस्य तत्तदोषसमसङ्ख्यागुलायामादिकम्, आयुधदेवीनां चतुरङ्गुलायामादिकमिति विशेषः । पक्षत्रयेऽपि व्याप्तस्य श्रीगुरोः प्रधानदेवीवत् । जीवतस्तस्य स्वस्य च क्रमागमज्ञशिष्यशक्तिसामयिकानां च कण्ठादिनाभ्यन्तायाममङ्गीकृतपक्षान्यतमसङ्ख्यसरग्रन्थिकं एकग्रन्थिकं वा । क्रमः कालनित्याक्षरक्रमः । आगमः कादिकालीमतादिः । अन्येषां शक्तिसामयिकानां कण्ठादिनाभ्यन्तमानं नवसरमेकग्रन्थिकं च । वितानाद्देवताविष्टायाममष्टोत्तरशतसरग्रन्थिकम् । शक्त्यावतारकं नाम मण्टपस्य तत्परिधिसमप्रमाणमेकसरग्रन्थिकम् । होमाः षोडशनवान्यतराङ्गुलायाममेकसर मेकग्रन्थिकं च पवित्रं कुर्यात् । ग्रन्थिः सूत्रवेष्टनरूपः । वेष्टनसङ्ख्या तूत्तमादिभेदेन षट्त्रिंशच्चतुर्विंशतिद्वादशात्मिका ऐच्छिकी वा । तन्मन्त्रस्तु बाला वा कवचं वा । उक्तपक्षत्रये एकतमस्यैवाश्रयणीयत्वं, मानसांक अनिष्टापादकं सर्वथा नाचरेदिति स्थितिः । इत्थमुपकल्पितानि गोरोचन - कुङ्कुमरक्तचन्दनमृगमदपङ्कालिप्तानि लाक्षागैरिकान्यतरचित्रितग्रन्थिकानि पवित्राणि प्राग्वदधिवास्य श्रावण्यां रात्रौ शक्त्यवतारकं पवित्रं वितानाल्लम्बयित्वा मण्टपं तत्सूत्रेणावेष्ट्य प्रधानदेवीपूजान्ते ज्ञानमुद्रोपात्तैः पुष्पैः समं श्रीदेव्याद्यावरणान्तदेवताभ्यः तत्तत्पादुकया पृथक् पृथक् समर्प्य अग्नये च पुरो निधाय श्रीगुरुशक्तिसामयिकेभ्यः प्रदाय स्वयं धृत्वा शिप्येभ्यो दद्यात् । एतावत्कर्तुमसम्भवे षण्णवत्यङ्गुलायामसरग्रन्थिकानि त्रीणि पवित्राणि कृत्वा श्रीदेव्यै समर्पयेत् । शेषं पूर्ववत् । एतन्मुख्यकालातिक्रमे मिथुनादितुलान्तसङ्क्रान्तिगतासु कृष्णाष्टमीकृष्णचतुर्दशीपूर्णिमासु वा कार्यम् ॥ इति पवित्रारोपणविधिः ॥
१४०
9
भाद्रपदकृत्यम्
ततो भाद्रपद्यां पूर्ववदधिवासितेनैकैकेन केतकीपुष्पेणालाभे पत्रेण वा ज्ञानमुद्रा सर्वाः देवता अर्चयेत् । पुष्पं तु निष्कासितकेसरमिति श्रीगुरुमुखागमः । शेषं समानम् ॥ इति भाद्रपदकृत्यम् ॥