________________
१३९
यौवनोल्लासः तृतीयः-श्रीक्रमः
चैत्रपूर्णिमाकृत्यम् अस्यामेव पूर्णिमायां वसन्तोत्सवोऽपि विहितः । तत्र दमनार्पणवसन्तोत्सवौ तन्त्रेण करिष्ये इति सङ्कल्प्य तत्कालसम्भवानि सकल्हाराणि कर्पूरचन्दनोक्षितानि कुसुमानि पूर्ववत् अधिवास्य तैर्दमनकैश्च युगपदर्चयेत् ॥ इति चैत्रपूर्णिमाकृत्यम् ॥
वैशाखीकृत्यम् अथ वैशाख्यां पूर्णिमायां नैवेद्यावसरे प्राग्वदधिवासितं हेमन्तकाले सङ्गृहीतं तुषारोदकं तदलाभे कर्पूरमृगनाभिसुरभिळं शीतळं सलिलं वा पूर्वोक्तान्यतमेन पक्षेण सावरणायै देवतायै निवेदयेत् । अवशिष्टं प्राग्वत् ॥ इति वैशाखकृत्यम् ॥
ज्येष्ठकृत्यम् अथ ज्येष्ठायां प्राग्वदधिवासितानि कदलीपनसाम्रादीनि फलानि उक्तया रीत्या कयाचित् उक्तमन्त्रैः प्रधानदेव्यादिभ्यो निवेदयेत् । तैः अर्चयेदिति केचित् । अन्यत् समानम् ॥ इति ज्येष्ठकृत्यम् ॥
आषाढकृत्यम् अथाषाढ्यां प्राग्वदधिवासनपूर्वकं श्रीदेव्यै कुङ्कुम मिश्रं चन्दनं समर्प्य जातीकुसुमैः सावरणामभ्यर्च्य ताम्बुलावसरे लवङ्गैलाककोलानि उक्तेन प्रकारेण केनापि निवेदयेत् । शेषं पूर्ववत् ॥ इत्याषाढकृत्यम् ॥
पवित्रारोपणविधिः तदनु श्रावण्यां पूर्णिमायां पवित्रारोपणम् । तानि च सुवर्णरौप्यताम्रान्यतमतन्तुपट्ट'सूत्रसरीपद्मदर्भमुञ्जशाणवल्कलकार्पासान्यतमसूत्रविनिर्मितानि । कार्पाससूत्रं तु सुवासिनीकर्तृकम् । उक्तान्यतमेन नवगुणितेन सूत्रेण निर्मितैः षोडशाङ्गुलायामैः तावत्सङ्ख्याकैः सरैः सम्पन्नं तावत्संङ्ख्याग्रंथिमदेकं पवित्रमित्येकः पक्षः । नवागुलायामसरग्रन्थिकं वेति द्वितीयः । तत्तदावरणगतशक्तिसमसङ्ख्याकाङ्गुलायामसर
। सूत्रत्रिसरी-अ१. सूत्रत्रसरी-बी, ब२, भ.