________________
१२१
اس
اس
ام
اس
اس
यौवनोल्लासः तृतीयः-श्रीक्रमः ३ ॐ ह्रीं स्त्रीं ह्रूं क्रीं श्रीं उग्रतार सौः क्लीं ह्रीं श्रीं स्वाहा
. त्रिवारं जपेत् ॥ एते पश्च मन्त्राः पञ्चरत्नपदेन उच्यन्ते ॥
ततः सूतकनिवारणाय प्रणवसम्पुटितां मूलविद्यां (पञ्चदशी) दशवारमावर्त्य अनन्तरं विघ्नहरान् षण्मन्त्रात् त्रिस्त्रिजपेत् ॥ यथा
ऐं ह्रीं श्रीं इ रि मि लि कि रि कि लि प रि मि रोम् ॥
३ ॐ ह्रीं नमो भगवति महात्रिपुरभैरवि मम पुररक्षां कुरु कुरु ॥ ३ संहर संहर विघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा ॥ ३ ब्लू रक्ताभ्यो योगिनीभ्यो नमः ॥ ३ सां सारसाय बह्वाशनाय नमः ॥
३ दु मुलु षु मु लु षु ह्रीं चामुण्डायै नमः ॥ एते कुल्लूकाद्या विघ्नहरान्ता जपम्य पूर्वाङ्गमन्त्राः । त्रितारीपूर्वकत्वं तु सर्वेषां सिद्धमेव ॥
ततः पेशीछन्नां सुवर्णरत्नस्फटिकमणिपुत्रजीवरुद्राक्षाद्यन्यतमनिर्मितां मालां श्यामाक्रमे वक्ष्यमाणेन संस्कारविधिना संस्कृतामादाय, कचित्पात्रे वामपाणौ वा निधाय, सामान्यार्योदकेन शुद्धोदकेन वा मूलेनाभ्युक्ष्य,
ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ इति प्रार्थ्य, ही सिद्धयै नमः इति मन्त्रेण पुनः पुनः आवृत्तेन गन्धादिभिः पञ्चमिः गन्धपुष्पाभ्यामेव वा सम्पूज्य, ऐं ह्रीं श्रीं गं
अविघ्नं कुरु माले त्वं करे गृह्णामि दक्षिणे ।
जपकाले तु सततं प्रसीद मम सिद्धये ॥ इति दक्षिणहस्तेन मालां गृहीत्वा, मध्यमामध्यपर्वावलम्बिनीं तां तर्जन्या वामहस्तेन चास्पृशन् एकमणिग्रहणे अन्यमनुपाददानः क्रमादङ्गुष्ठाग्रेण मणीन् परिवर्तयन् जम्भाक्षुताद्यकुर्वन् अनिद्राणः, एतेषां सम्भवे आचम्य देवताऽऽत्मत्वं भावयन् , माला
62