________________
दशमः खण्डः --- सर्वसाधारणक्रमः
रिर्वखजिमदनश्रीर्वजशंरिर्वपुषशंरिर्वष्टगशंरिर्वत्वशं रिर्वकशंरिमुमेशनस्वाऽन्त मन्त्रादि बीजषट्कं प्रातिलोम्यमिति अष्टनवतिवर्णाः ॥ ४० ॥
३१७
तद्विद्या तु श्यामाविद्या त्वित्यर्थः । त्रितारी कुमारी च प्रागुक्ते । नश्च भश्चेति हावर्णपर्यन्तं द्वन्द्वः । इत्थं ओं इत्यारभ्य स्वा वर्णपर्यन्तं द्वन्द्वः । इत्थं च नकारमारभ्य हाऽन्ता ये वर्णाः तेषु क्रमेणैकैकवर्णोत्तरं योजयेत् । यथा -- ओम्, तदुत्तरं नवर्णः, तदुत्तरं मो, एतदुत्तरं भ, इत्युच्चरेत् । एवंक्रमेण वर्णान् योजयित्वा स्वाहाऽन्तं पठेत् । नभइत्यादिहावर्णान्तकूटे मायापदेन ह्रीं इति गृहीत्वा अष्टनवतिवर्णान्तर्गतषट्त्रिंशद्वर्णः ह्रीं इति योज्यः । एवं ओं इत्यारभ्य स्वावर्णान्ते द्वितीयकूटे कामपदे क्लीं इति वर्ण गृहीत्वा अष्टनवतिवर्णान्तर्गतपञ्चत्रिंशद्वर्णः क्लीं इति योज्यः । कूटद्वयेऽपि शेषवर्णाः उक्तरीत्या यथाश्रुता एव पठितव्याः । एवंग्रथनपूर्वकं स्वाहाऽन्तं मन्त्रं पठित्वा ततः प्रथमषबीजानि विपरीतानि पठेत् । एवं च सर्व मिळित्वा अष्टनवतिवर्णा भवन्ति । अत्र ग्रथिते मन्त्रे द्वयशीतित्र्यशीतिचतुरशीतिवर्णा अमुकं इति भवन्ति । तत्स्थाने विवक्षितनामनिर्देशः, सर्वनामत्वात् " आशास्ते यं यजमानोऽसौ " इतिवत् । विवक्षितनामप्रक्षेपे वर्णन्यूनाधिकभावो न दोषाय, सङ्ख्यावाचकशब्दस्यानुवादकत्वात् ॥ ४० ॥
अंगादियुक्ता वाराहीविद्या
अथ अनाहते ध्येयाया वाराहीविद्याया अङ्गमाह-
हरः सबिन्दुर्वा पूर्वराहि स्थाणुः सबिन्दुरुन्मत्तपदं भैशब्दो रविपादुकाभ्यां नम इति वार्ताळ्य लघुवार्ताळी ॥ ४१ ॥
हरः अग्रे स्थाणुरिति दशमस्वरवाचकौ । इत्थं च प्रथमं लूं ततः पूर्व इत्यंशं त्यक्त्वा हिवर्णान्तः । पुनः लूं । ततः पदं शब्दः इत्येतावदंशमपहाय नमो ऽन्तं यथाश्रुतम् । इयं लघुवारा ही वाराह्य ङ्गभूता ॥ ४१ ॥