________________
दशमः खण्डः-सर्वसाधारणक्रमः शब्दो वशमानयाग्निवामलोचनेति महागणपतिविद्या प्रत्यूह' शमनी ॥ १७ ॥
कमला श्रीं भुव ना ह्रीं म द नः क्लीं ग्ला त् चतुर्दशः औ पञ्च द शोऽनुस्वारश्च, मिळित्वा ग्लौं । व र युगळं वरद्वयम् । ततः शब्द इति शब्दं च त्यजेत् । अवशिष्टाः सर्वे वर्णाः मन्त्रावयवाः । व हि वा म लो च ना स्वाहा इति चरमं पठेत् । प्रत्यूह श म नी विघ्ननाशिनी ॥ १७ ॥
द्वितीयमन्त्रमाह--
प्रणवो नमः शिवाय प्रणवो नमः शिवायेति द्वादशार्णा शिवतत्वविमर्शिनी विद्या ॥ १८ ॥
शिव रूपं यत् चरमं तत्त्वं तस्य यो विमर्शः प्रकाशशक्तिः तत्संपादिनी ॥ १८ ॥
तृतीयमाह
प्रणवः काष्टमदक्षश्रुतिबिन्दुपिण्डो भृगुषोडशो मां पालयद्वन्द्वं इति दशार्णा मृत्योरपि मृत्युरेषा विद्या ॥ १९ ॥
क कारात् अष्ट मः जकारः द क्ष श्रुतिः उकारः, मातृकान्यासे तत्स्थानत्वात् , बिन्दुः प्रसिद्धः । त्रितय पि ण्डः समुदायः जुं इति । भृगुः सकारः, षोड शो विसर्गः, सः इति । तदनन्तरं मां पा लय पाल ये ति । मृ त्यो र पि मृत्युः अपमृत्युनाशिनीत्यर्थः ॥
चतुर्थमाह
तारः नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ़ ममामुष्य ॐ इति श्रुतधारिणी विद्या ॥ २० ॥ 'नाशिनी-श्री.