________________
दशमः खण्ड:---सर्वसाधारणक्रमः ॐ नमो भगवते सूर्याय अहो वाहिनि वाहिन्यहो वाहिनि वाहिनि स्वाहा ॥
वयस्सुपर्णा उपसेदुरिन्द्रं
प्रियमेधा ऋषयो नाथमानाः । अपध्वान्तमूर्णहि पूर्धि चक्षु
मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः। कमलेक्षणाय नमः। विश्वरूपाय नमः । श्रीमहाविष्णवे नमः ॥
इति षोडशमन्त्रसमष्टिरूपिणी दूरदृष्टिप्रदा'चाक्षुमती विद्या ।। ११ ॥
सूर्ये त्यारभ्य वृणि नं जा त वे द सं [अप्रति रूपः] इतिपर्यन्तं सप्त वाक्यानि सप्त मन्त्राः । ततो हि र ण्म यं विश्वरूपं] इत्यारभ्य एष सूर्यः इत्यन्तोऽष्टमः । ॐ नमः इत्यारभ्य स्वा हाऽन्तो नवमः । व य स्सुपर्णा इत्यारभ्य बद्धान् इत्यन्तो दशमो मन्त्रः । तदग्रिमाणि नमोऽन्तानि षट् वाक्यानि प्रत्येकं षण्मन्त्राः । इत्थं षोडश मन्त्राणां स म ष्टिः समुदायः तद्रूपिणी या प्रकृतविद्या सा उपासकानां दूर दृष्टि प्रदा द्वीपान्तरस्थं वस्त्वपि करस्थामलकवत् दृष्टिगोचरीकरोतीति भावः ॥११॥
द्वितीयपञ्चके द्वितीयमन्त्रमाह
प्रणवो गन्धर्वराज विश्वावसो मम अभिलषितामुकां कन्यां प्रयच्छ ततोऽग्निवल्लभेत्युत्तमकन्याविवाहदायिनी विद्या ॥ १२ ॥ 'चक्षु-श्री.