________________
३०६
परशुरामकल्पसूत्रम्
रश्मिपञ्चकमेतन्मूलहृत्फालविधिबिलद्वादशान्त
बीजतया विमृष्टव्यम् ॥ १० ॥
त्रिंशद्वर्णा गायत्री" इत्यादिभिः वक्ष्यमाणैः रश्मिमालाऽवयवमन्त्रसंज्ञा दर्शिता । ऐन्द्री इन्द्रदैवत्या । सङ्कटे दावाभिव्याघ्रादिप्राणसङ्कटे । ने जो दा - तेज: स्वदर्शनेन परेषां स्वस्मिन् उत्कर्षप्रतिपादिका शक्तिः तस्याः दायिनी । प्रणवः केवलः प्रणवोच्चारणमेव ब्रह्म विद्या ब्रह्मविद्याप्रतिपादिका । तारः प्रणवः । तुर्य गायत्री गायत्र्यास्तुर्यपादरूपा । तदुक्तं विश्वामित्रकल्पे
64
गायत्र्यास्तुर्यपादोऽयं त्रिपदाया ह्युदाहृतः ॥ इति ॥
स्वैक्य विमर्शः आत्मरूपज्ञानं तत्प्रदायिका । एत तु तत्सवितुरिति गायत्रीमारभ्य गायत्रीतुर्यपादपर्यन्तं यत् रश्मि पञ्चकम् । रश्मीनां प्रकाशशक्तिमत्त्वात् अमीष्वपि तत्त्वे रश्मिशब्देन व्यवहारः । क्रमेण मूले मूलाधारे हृदि ललाटे विधि बिले ब्रह्मरन्ध्रे द्वादशान्ते । अयं व्याख्यातः प्राक् । विमृष्टव्यं भावयितव्यम् ॥ १० ॥
चाक्षुष्मती विद्याsदि द्वितीयं रश्मिपञ्चकम
सूर्याक्षितेजसे नमः । खेचराय नमः | असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ॥
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥
1 तत्प्रापिका - ब२.