SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०२ परशुरामकल्पसूत्रम् प्रसक्तौ, अपिच कश्चन उपासनायां श्रद्धावान् ललितोपास्तौ च अनधिकारी तस्य शिवविष्ण्वाद्युपासनां प्रवर्तयतु इति, परमकृपालुः श्रीपरशुरामः सर्वसाधारणीं उपासनासरणिं दर्शयति अथातः सर्वेषां मन्त्राणां सामान्यपद्धतिं व्याख्यास्यामः ॥ १ ॥ अथ त्रिपुरसुन्दर्युपास्तिप्रकारदर्शनानन्तरम् । अतः अवतरणिकायामुक्तहेतोः । सर्वेषां गणपति-ललिता - श्यामा-वार्ताळीभिन्नानां यावतां मन्त्राणाम् । सामान्य पद्धतिं साधारणसरणिम् ॥ १ ॥ श्यामाऽङ्गानां केषांचिदतिदेशः अथ श्यामा मे पठितानि कानिचिदङ्गान्यतिदिशति वचनेन - श्यामावत् सन्ध्याऽऽद्यर्घ्यशोधनपर्यन्तं न्यासवर्जम् ॥ २ ॥ धन सन्ध्या ss दी त्यनेन सन्ध्यातः प्राक् पठितानां व्यावृत्तिः । अ र्ध्य पर्यन्तं इत्यनेन तदग्रिमव्यावृत्तिः । उभयमध्यतनानां मध्ये न्यास व र्ज इत्यनेन तद्व्यावृत्तिः । अर्घ्यशोधनं इत्यविशेषोक्त्या विशेषार्घ्यशोधनान्तं कार्यम् । तेन ब्राह्मे मुहूर्ते यत् कृत्यं स्नानदन्तधावनविंशतिगण्डूषादि सर्व निवर्तते ॥ २ ॥ सर्वसाधारणन्यासः सर्वसाधारणन्यासमाह अनुक्तषडङ्गस्य षड्जातियुक्तमायया षडङ्गम् ॥ ३॥ अनुक्तेत्यनेन अज्ञातमप्युपलक्षणीयम् । इत्थं च यस्य मन्त्रस्य षडङ्गं उक्तम्, तेन स्वषडङ्गे श्यामाक्रमे न्याससमये न्यसेत् । यस्यानुक्तमज्ञातं वा तत्र षड्जातियुक्तमायया षडङ्गन्यासः । षड्जातिमाया च ह्रां ह्रीं हूं हैं ह्रौं ह्रः इति क्रमेण षडङ्गेषु योज्यम् ॥ ३ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy