________________
३०१
दशमः खण्डः-सर्वसाधारणक्रमः
. अग्निदेवतयोरुद्वासनम् पूर्वावाहितचिदनेरावाहिताया देवतायाश्चोद्वासनमाह--
चिदग्निं देवतां चात्मन्युद्वासयामि नम इत्युद्वास्य ॥ २८॥ उद्वा स नं खेचरीमुद्रया ॥ २८ ॥
भस्मधारणम्
भस्मधारणफलमाह
तद्भस्मतिलकधरो लोकसम्मोहनकारः सुखी विहरेत् । इति शिवम् ॥ २९ ॥
____ इति . . . कल्पसूत्रे होमविधिर्नाम नवमः खण्डः
तद्भस्म अग्नेर्भस्म । अग्निविसर्जनानन्तरं परिस्तरणपरिधीनामपि विसर्गः, प्रतिपत्तिसंस्कारस्यानुक्तत्वात् । शि व मिति व्याख्यातम् ॥ २९ ॥
इति . . . कल्पसूत्रवृत्तौ होमविधिर्नाम नवमः खण्डः
दशमः खण्ड:-सर्वसाधारणक्रमः
सामान्यक्रमाधिकारः प्रथमखण्डे दीक्षाऽनन्तरं सर्वमन्त्राधिकारी भवतीत्युक्तत्वात् श्रीत्रिपुरसुन्दर्युपास्तेः निष्कामरूपतया यदा सङ्कटे कामनावशात् सूर्यविष्णुभैरवाद्युपास्तिप्रसक्तिः तदितिकर्तव्यताज्ञानार्थ तन्त्रान्तरोपास्ति सूत्रानुयायी मा करोतु इति तदुपासनासिद्धये, किं च रश्मिमालाऽऽदिषु प्रत्येकं मन्त्राणां फलश्रवणात् तत्तत्कामनया तत्तदुपास्ति