________________
२२८
परशुरामकल्पसूत्रम्
कर्तृगुणविशेषविधिः कर्तुरङ्गभूतान् कांश्चित् गुणानाह
गन्धद्रव्येण लिप्ताङ्गस्ताम्बूलामोदितवदनः प्रसन्नमना भूत्वा ॥ १६ ॥
श्यामाचक्रलेखनप्रकारः
अथ श्यामाचक्रलेखनप्रकारमाह
सुवर्णरजतताम्रचन्दनमण्डलेषु बिन्दुत्रिकोणपञ्चकोणाष्टदळषोडशदळाष्टदळचतुर्दळचतुरश्रात्मकं चक्रराजं विलिख्य ॥ १७ ॥
म ण्ड ले षु फलकेषु । पञ्च को णं पञ्चाश्रकुण्डाकारम् । निर्माणं बिन्दुमारभ्य। निर्गमनरीत्या ज्ञेयम् ॥ १७ ॥
. सामान्यार्थ्यविधिः .... अथ सामान्यार्थ्यविधिमाह- .
मूलेन त्रिवारजप्तेन शुद्धजलेन चतुरश्रवृत्तषद्कोणत्रिकोणबिन्दून् प्रवेशेन मत्स्यमुद्रया विधाय अं आत्मतत्त्वाय आधारशक्तये वौषट् इत्याधारं प्रतिष्ठाप्य धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीः सुरूपा कपिला हव्यवाहा कव्यवाहेत्यग्निकळा अभ्यर्च्य उं विद्यातत्त्वाय पद्माननाय वौषट् इति पात्रं प्रतिष्ठाप्य तपिनी