________________
१००
परशुरामकल्पसूत्रम्
लोकानतीत्य ललते ललिता तेन चोच्यते । इति । अत्र चकारद्योत्यं निरुक्त्यन्तरं दर्शयामासुरस्मत्परमेष्ठिगुरवः सहस्रनामभाष्ये—ललितं शृङ्गारभावजन्यः क्रियाविशेषः, तद्वती ललिता । तेन शृङ्गाररसप्रधानेयं मूर्तिरिति ध्वनितम् ॥ १ ॥
ब्राह्ममुहूर्तकर्तव्यध्यानादि 'ततो गुरुध्यानादीनुपदिशति सूत्रद्वयेन
ब्राह्म मुहूर्ते ब्राह्मणो मुक्तस्वापः पापविलापाय परमशिवरूपं गुरुमभिमृश्य ॥ २॥
ब्रा मा मुहूर्तः– दिवसं षष्टिघटिकाऽऽत्मकं त्रिंशता विभज्य अष्टाविंशो मुहूर्तः स ब्राह्मः । तदुक्तं देवीभागवते
अष्टाविंशतिमो यश्च मुहूर्तो ब्रह्मनामकः ।
तस्मिन्नुत्थाय मतिमांश्चिन्तयेदात्मनो हितम् ॥ इति ॥ तस्मिन् ब्राह्मणः मुक्त स्वा पः निद्रां त्यक्त्वा । तस्मिन् समये निद्रात्यागस्य सामान्यतः स्मृतिप्राप्तत्वेऽपि क्रत्वर्थत्वेन अप्राप्तमनेन विधीयते । दर्शपूर्णमासप्रकरणे " नानृतं वदेत्" इतिवत् त्वर्थत्वम् । तस्मिन्निद्राऽभावे प्राशस्त्यं च त्रिपुरारहस्ये
द्विमुहूर्तावशेषे तु सूर्यस्योदयनं प्रति । उषःकाल: समाख्यातः साधकानां शुभावहः ॥ तत्काले यो यमर्थं वै चिन्तयेन्निश्चलान्तरः । तदस्य जायते राम कालवेलास्वभावतः ॥ यस्तु कल्पद्रुमप्रख्ये कालेऽस्मिन्नावबुध्यते । बुद्धा वा स्वं हितं नैव चिन्तयत्यतिमूढधीः ॥ सर्वैः स्वार्थैः परिभ्रष्टः पङ्के गौरिव सीदति ॥ इति ॥
1 " इतः परं ललितोपासकेन अनुदिनं कर्तव्याः क्रिया आह" इति ब. कोशे.