SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७८ पाणिनिसूत्रव्याख्या वपुषा मुखेनेति च तृतीया । हैन्यवदाधिकयमप्यङ्गानां विकारः। तेजसेति तु प्रकृत्यादित्वात्तृतीया । नैषधे--V. 136. यं प्रासूत सहस्रपादुदभवत्पादेन खजः कथं स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति । एतस्योत्तरमद्य नः समजनि त्वत्तेजसा लङ्घने साहस्रैरपि पङ्गुरद्धिभिरभिव्यक्तीभवन्मानुमान् ।। 323 ! पादेन खजः पङ्गुरद्मिभिरिति तृतीया । अनर्घराधवे-III. 54. रुन्धन्नष्ट विधेः श्रुतीमुखरयनष्टौ दिशः क्रोडय न्मूर्तीरष्ट महेश्वरस्य दलयनष्टौ कुलक्ष्माभृतः । तान्यक्ष्णा बधिराणि पन्नगकुलान्यष्टौ च संपादय नुन्मीलत्ययमायदोर्बलदलल्कोदण्डकोलाहलः ।। 324 ।। पन्नगानां चक्षुःश्रवस्त्वात् अक्ष्णा बधिराणीति । अनर्घराघवे-V. 3. रक्षोऽभिचारचरुभाण्डमिव स्तन यो देव्या विदेहदुहितुर्विददार काकः । ऐषीकमस्त्रमधिकृत्य तदा तमक्ष्णा काणीचकार चरमो रघुराजपुत्रः ॥ 325 || अक्ष्णेति तृतीया । चम्पूभारते-III. 45. अब्धौ वानरपातिताचलशिलाभङ्गाभिघातैश्चिा दक्ष्णान्धैः कुणिभिः करेण च पदा खजैः पयोमानुपैः । वीचीवी थिषु कीय॑मानमनघं वृत्तं रघूणां प्रभोः श्लाघश्लाघमसौ तटेन हरितं प्राचेतसीमभ्यगात् ।। 826 ।। ५६६ । इत्थम्भूतलक्षणे । (२. ३. २१)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy