________________
पाणिनिसूनव्याख्या
भट्टिकाव्ये-V. 81.
दीव्यमानं शितान् बाणानस्यमान महागदाः ।
निघानं शात्रवान् राम कथं त्वं नावगच्छसि ॥ 16 बाणानिति करणस्य कर्मत्वम् । मस्मिन्नेव ग्रन्थे श्लो० 304. विषयान्दीव्यतीति करणे कर्मत्वम् ।
माघे-VIII. 32. मुग्धत्वादविदितकैतवप्रयोगा
गच्छन्त्यः सपदि पराजय तरुण्यः । ताः कान्नैः सह करपुष्करेरिताम्बु
व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ 317 ॥ व्यात्युक्षीमिति कर्मत्वम् ।
भट्टिकाव्ये-XVII. 102.
अस्तृगादधिकं समस्ततोऽदेवत सायकैः ।
अक्लाम्यद्रावणस्तस्य पूतो रथमनाशयत् ॥ 318 ।। * सायकैरिति करणे तृतीया।
५६३ । अपवर्गे तृतीया । (२. ३.६; अपवर्गः फलपाप्तिस्तस्यां द्योत्यायां काल ध्वनोरत्यन्तसंयोगे तृतीय' स्यात् । अहा क्रोशेन वानुवाकोऽधीतः । भट्टिकाव्ये-VIII. 95.
* संवत्सरेण यान्त्येव दुःखशीला अपि स्त्रियः । ___ मार्दवं प्रार्थिताः पुंसां व्यहाद्दोग्ध्रयोऽपि सस्त्रियः ॥ 319 ॥ संवत्सरेणेति तृतीया ।
* मुद्रितपुस्तके श्लोकोऽयं नोपलभ्यते ।