________________
জাসফলু
रघुवंशे-XIII. 9.
मुखार्पणेषु प्रकृतिप्रगल्भाः
स्वयं तरङ्गाधरदानदक्षः। अनन्यसामान्यकलत्रवृत्तिपिबत्यसौ पाययते च सिन्धू 245
सिन्धरित्यणिकर्तुः कर्मत्वम् । चम्पूभारते-VI. 67.
सुराधिकत्वेऽपि पदे वितीर्णे
मह्य तवाम्त्येव हि कृत्यशेषः । कुरुष्व मेरोरधिके कुचे मां
सुधाधिकं पायय चाघरोष्ठम् ॥ 246 ॥
भट्टिकाव्ये-IIT. 25.
अशिश्रवन्नात्ययिकं तमेत्य
दूता यदार्थ प्रयियासयन्तः । माहिष्ट जाताजिहिषस्तदासा
वुत्कण्ठमानो भरतो गुरूणाम् ।। 247 ! शृणोतेः शब्दकर्मत्वादणिकर्तु: कर्मत्वम् । रघुवंशे-XV. 83.
साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवो।
स्वकृति गापयामास कविप्रथमपद्धतिम् ।। 248 ।। गायतेः शब्दकर्मत्वादणिकर्तुः कर्मत्वम् । रघुवंशे-IX, 19.
स किल संयुगमूर्ध्नि सहायता
मघवतः प्रतिपद्य महारथः ।