________________
पाणिनिसूत्रव्याख्या
खुवंशे-I. 74.
सोऽपश्यत्प्रणिधानेन सन्ततिस्तम्भकारणम् । भावितात्मा भुवो भतुरथैनं प्रत्यबोधयत् ।। 239 ।।
नैषधे--IV. 31.
त्वदितरोऽपि हृदा न मया धृतः ___ पतिरितीव नलं हृदयेशयम् । स्मरहविर्भुजि बोधयति स्म सा
विरहपाण्डुतया निजशुद्धताम् ॥ 240 ॥
भट्टिकाव्ये--VII. 4.
ततः कपिसमाहारमेकनिश्चायमागतम् ।
उपाध्याय इवायाम सुग्रीवोऽध्यापिपदिशाम् ।। 241 ।। अध्यापिपहोधितवान् । भट्टिकाव्ये-VIII. 62.
ज्योत्स्नामृतं शशी यस्यां वापीर्विकसितोत्पलाः । अपाययत सम्पूर्णः सदा दशमुखाज्ञया ॥ 242 ।।
कुमारसम्भवे--VIII 77.
मान्यभक्तिरथवा सखीजनः
सेव्यतामिदमनङ्गदीपनम् । इत्युदारमभिधाय शङ्कर
स्तामपाययत पानमम्बिकाम् ।। 243 ॥
माघ--X. 2.
सोपचारमुपशान्तविचार सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः ॥ 244॥ चरित्यणिकर्तुः कर्मत्वम् ।