________________
माघे - XIV. 1.
तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्मिनां वरमकद्वदो नृपः ॥ 227 ॥
किरातार्जुनीये - I. 5.
कारकप्रकरणम्
स किंसखा साधु न शास्ति योऽधिपं
हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं
नृपेष्वमात्येषु च सर्वसम्पदः ॥ 288 ॥
नैषधे - III. 86.
दारिद्र्यदारिद्रविणौघवर्षे
रमोघमेघत्रतमर्थिसार्थे ।
सन्तुष्टमिष्टानि तमिष्टदेवं
नाथन्ति के नाम न लोकनाथम् ॥ 229 ॥
नाथतेर्याच्ञार्थत्वाद् द्विकर्मकत्वम् || ' अप्रधाने दुहादीनामिति वचनात् ।
किरातार्जुनीये - V. 80.
येनापविद्धसलिल: स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः
खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ 230 it
मनातेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ।
रघुवंशे — XI. 1.
-
कौशिकेन स किल क्षितीश्वरो
राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचित
स्तेजसां हि न वयः समीक्ष्यते ॥ 231 ॥
५५
"