________________
॥ अथ स्वार्थिकप्रकरणम् ॥
२०५१ | इवे प्रतिकृतौ । ( ५.३.९६ )
कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः ।
स्कन्दः ।
२०५४ | जीविकार्थे चापण्ये । ( ५.३.९९ )
जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप् स्यात् । वासुदेवः । शिवः ।
1
२०५६ । वस्तेर्टञ् । ( ५. ३. १०१ )
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वसतिरिव वास्तेयम् । वास्तेयी । २०५७ । शिलाया ढः । ( ५. ३. १०२ )
शिलाया इति योगविभागात् ढअपीत्यके । शिलेव शिलेयम् । शैलेयम् । 1
रघुवंशे - VI. 51.
अध्यास्य चाम्भः पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ 1886 || ढ्ञ ।
२०५८ | शास्त्रादिभ्यो यः । ( ५.३.१०३ )
शाखेव शाख्यः । मुखमिव मुख्यः । जघनमिव जघन्यः । अग्रयः । शरण्यः 1 शाखादिः - ५. ४५. शरण्ये साधुश्शरण्यः । ' तत्व साधु : ' ( सू. 1650 ) इति यत् ।
1
अस्मिन्नेव ग्रन्थे श्लो० 1124. अग्रणीवि अग्रचाः श्रेष्ठाः । तेषां वनेचराग्रयाणां जघनमिव जघन्या नीचाः ।
अस्मिन्नेव ग्रन्थे श्लो० 1704. मुखमिव मुख्यः प्रधानम् ।
२०६० । कुशाग्राच्छः । ( ५.३.१०५ )