________________
६
ADI
पाणिनिसूनव्याख्या अन्मिन्नेव ग्रन्थै श्लो० 550. गरीयसा गुरुतरेण । गुरुशब्दादीयसुनि गरादेशः ।
किरातार्जुनीये--XI. 10.
त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयः प्रायो वर्षीयानपि मादृशः ॥ 1861 ॥ वर्षीयान् अतिवृद्धः । वृद्धशब्दादीयसुन् । अनेन वर्षादेशः । भट्टिकाव्ये-III. 42.
आतिथ्यमेभ्यः परिनिर्विवत्सोः कल्पद्रुमायोगबलेन फेलुः । धामप्रथिन्नो म्रदिमान्वितानि वासांसि च द्राधिमवन्युहुः ।। 1862 ॥ . द्राघिमवन्ति दैर्घायुक्तानि । दीर्घशब्दस्य द्राघादेशः । पश्चान्मतुप् ।
अस्मिन्नव ग्रन्थे श्लो० 682. द्राधीयसा अतिदीर्पण । अनेन दीर्घशब्दस्य द्रापादेशः ।
२०१७ । बहोर्लोपो भू च बहोः । (६. ४. १५८) बहोः परयोरिमेयसोर्लोप: स्यात् बहोश्च भूरादेशः । भूमा । भूयान् ।
चम्पूमारते--III. 2.
प्राणायमानमहिलानथ पाण्डुपुत्रान्
क्षोणाविमाननुजिघृक्षुरुदारभूमा । एणाजिनेन घटितोद्गमनीयकृत्यो
वीणाविनोदरसिको मुनिराविरासीत् ॥ 1863 ।। उदारभूमा ।
अस्मिन्नेव ग्रन्थे श्लो० 1604. भूमयन्ति स्वसामर्थम् । बहोर्भावः भूमा । .' पृथ्वादिभ्य इमनिच्' (सू. 1784) । अनेन भूरादेशः । भूमा अस्यास्तीति भूमक्त् । तदस्वास्ति' इति (सू . 1894) मतुप । भूमकुर्वन्ति भूमयन्ति । भूमवच्छब्दात् तत्करोतीति णिचि लट् । णाविष्ठवद्भावात् ‘विन्मतोलक ' (सू. 2020) इति मतुपो लुक् ।