________________
६३६
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 8. यवीयसी गां कनिष्ठाम् । युवन्शब्दादीयसुन् 'उगितश्च' (सू. 455 ) इति डीप् ।
अस्मिन्नव ग्रन्थे श्लो० 1292. यविष्ठवत् युवतमवत् । युवनशब्दादिष्ठन् प्रत्ययः।
अस्मिन्नेव ग्रन्थे श्लो० 1416. क्षुद्राः नः क्षोदयन्ति। क्षुद्रशब्दात तस्करो-ीति ण्यन्तात् लट् । णाविष्ठवद्भावात् भनेन यणादिपरलोपः पूर्वस्य च गुणः ।
माघे-II. 100.
बृहत्सहायः कार्यान्तं क्षोदीवानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ।। 1855 ॥ क्षोदीयान् क्षुद्रतरः।
२०१६ । प्रियस्थिरस्फिरोबहुलगुरुवृद्धतप्रदीर्घवृन्दारकाणां प्रस्थस्फवबहि
गवर्षित्रन्द्राधिबृन्दाः । (६. ४. १५७) प्रियादीनां क्रमात् प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः बहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्वाधिष्ठः । बृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात् प्रेमा इत्यादि ।
__ अस्मिन्नेव ग्रन्थे श्लो० 1194. बंहिष्ठकीर्तिः बहुलतरकीर्तिर्जनकः । बृन्दिष्ठं वृन्दारकतमं श्रेष्ठमित्यर्थः । प्रेष्ठं प्रियतम, गरिष्ठं गुरुतम, वरिष्ठं उरुतमं दशरथं आर्चीदर्चितवान् । बहिष्ठादौ बहुलादिभ्य इष्ठन् । बह्याद्यादेशः ।
किरातार्जुनीये-XIII. 50.
को विमं हरितुरनमायुधस्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूततेर्हन्तुमर्हति शरेण दंष्टिणम् ॥ 1856 ।। स्थेयसी स्थिरतराम् । स्थिरशब्दादीयसुन् । 'उगितश्च' (सू. 465 ) इति डीम् ।