________________
६३४
अन राघवे - VI. 7.
----
पाणिनिसूत्रव्याख्या
ग - तथा धर्मवृत्तिरार्यसन्तानश्च कुमारः कथं ज्यायांस भ्रातरमबधूम
प्रतिपक्षवर्ती संवृत्तः ॥ 1849 ॥
ज्यायांसं ज्येष्ठम् । 'बुद्धस्य च ' ( सू. 2018 ) इति ज्यादेशः । अनैम आत्वम् ।
२०१३ | वृद्धस्य च । ( ५.३.६२ )
ज्येष्ठः । ज्यायान् ।
अस्मिन्नेव ग्रन्थे श्लो० 894. ज्येष्ठे ।
रघुवंशे - XII. 35.
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता । साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ 1850 ॥
ज्येष्ठः ।
२०१४ | अन्तिकवादयोर्नेदसाधौ । ( ५. ३. ६३ )
नेदिष्ठः नेदीयान् । साधिष्ठः साधीयान् ।
भट्टिकाव्ये --- II. 55.
अथ पुरुजवयोगानेद्यद्दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वी विभागम् ।
क्लमरहितमचेतन्नीरजी कारितक्ष्मां
बलमुपहितशोभां तूर्णमायादयोध्याम् ॥ 1851 ॥
नेदयत् अन्तिकस्थं कुर्वत् । अन्तिकशब्दात् तत्करोतीति ण्यन्तालटः शत्रादेशः । णाविष्ठवद्भावात् नेदादेशः ।
अस्मिन्नेव मन्थे श्लो० 1566. नेदयति अन्तिकं करोति । अन्तिकशब्दस्य नेदादेशः ।