________________
६३३
पाणिनिसूत्रव्याख्या आशुतरं शीघ्रतरम् । आशुशब्दादनव्ययाचरम् । अतः आमुन । 'क्लीबे शीघ्राद्यसत्वे स्यात् त्रिष्वेषां सत्वगामि यत् ' I. i. 67. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 988. द्रुततरम् । पूर्ववत् ।
कुमारसंभवे-VII. 68.
अनेन सम्बन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि क्षितिधारणोचमुचैस्तरं वक्ष्यति शैलराजः ॥ 1845 ॥ क्षितिधारणोच्चमुन्नतं मूर्धानमुचैस्तरमुन्नततरम् । उच्चैरित्यव्ययातरम् । मूनों द्रव्यत्वान्नामुः । अनघराघवे-II. 81.
भूयस्तराणि यदमूनि तमखिनीषु
ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया
मावर्ति तैरुङभिरेव भृतोऽयमिन्दुः ।। 1846 ॥ भूयस्तराणि उडूनि । नामुः। माघे-VII. 48.
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोभरस्य ।
उपरि निरवलम्बन प्रियस्य न्यपतदथोच्चतरोचिचीषयान्या ।। 1847 ।। असहतरा । पचाद्यजन्तात् नसमासात्तरप् । 'तसिलादि' (सू. 836) इति पुंवद्भावः । उच्चतराणामत्युन्नतकुसुमानाम् ।
२००५ । द्विवचनविभज्योपपदे तरबीयसुनौ । ( ५. ३. ५७)
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः ।
२००६ । अजादी गुणवचनादेव । (५. ३. ५८)