SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ६२८ पाणिनिसूत्रव्याख्या बा० ॥ तीयादीकक् स्वार्थे वा वाच्यः 1 (2691) द्वैतीयकः द्वितीयः । तातयीकः तृतीयः । वा० ॥ न विद्यायाः । (2692.) द्वितीया तृतीया विद्या । नैषधे - II. 110. श्रीहर्ष कविराजराजिम कुटालङ्कारहीरस्सुतं श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते सर्गे निसर्गोज्ज्वलः ॥ 1834 ॥ द्वितीय एव द्वैतीयकः । नैषधे – III. 186. श्रीहर्षमित्यादि पूर्ववत् । तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते सर्गे निसर्गोज्ज्वलः ॥ 1835 तृतीय एव तार्तीयीकः । ईकक् स्वार्थिकः । १९९५ । प्रागेकादशभ्योऽछन्दसि । ( ५. ३. ४९ ) पूरणप्रत्ययान्ताद्भागे अन् । चतुर्थः । पञ्चमः । १९९६ । षष्ठाष्टमाभ्यां च । (५, ३, ५० ) चादन् । षष्ठो भागः षाष्ठः षष्ठः । आष्टमः अष्टमः । अस्मिन्नेव प्रन्ये लो० 709. उन्हानां षष्ठैः षष्ठभागैः अङ्कितानि सैकतानि येषां तानि" उन्पष्ठाङ्कितसैकतानि । षष्ठशब्दाद्भागार्थेऽन् । अत एवापूरणार्थत्वात् 'पूरणगुण' (सू. 705 ) इत्यादिनान षष्ठीसमासप्रतिषेधः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy