________________
प्रागिवीयप्रकरणम् चम्पूभारते---VI. 30.
अक्षीणवक्त्रशशिसेवनलाभतोपा
दालिजितामिव मिथो रजनेत्रियानाम् । त्रेधा विभज्य रचितां वहसेऽद्य वेणी
के सिंहसंहननमूहयितुं वियुक्तम् ॥ 1831 ॥ तेधा । एवाच ।
१९९३ । याप्ये पाशम् । (५. ३. ४७) कुत्सितो भिषक् भिषवपाशः।
अस्मिन्नेव ग्रन्थे श्लो० 1. भृत्यपाशकः कुत्सितभृत्यः । भृत्यपाश एवं भृत्यपाशकः।
भट्टिकाव्ये-IX. 59.
वानरः कुलशैलाभः प्रसह्यायुधशीकरम् ।
रक्षस्पाशान्यशस्काम्यस्तमस्कल्मान्दुद्रुक्त् ।। 1882 ॥ .. ' रक्षस्पाशान् कुत्सितराक्षसान् । पाशप् । 'पाशकल्पककाम्येप्विति वाच्यम् । (वा०. 5083. सू. 152) इति विसर्जनीयस्य सः । यथा पयस्पार्श, यशस्कल्प, यशस्क, यशस्काम्यति । केशपाश इत्यत्र 'पाशः पक्षश्व हस्तश्च कलापार्थाः कचात्परे। II. vi, 98. इत्यमरोक्तः पाशशब्दः । न पाशप् ।
विश्वगुणादर्शे-495.
कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान्
जठरपिठरपूर्फे जातु मा संगिरध्वम् । लुठत दृढतमस्के मा च संसारकूपे ... पठत शठजिदुक्तीरश्रमानीतसुतीः ॥ 1888 .
१९९४ । पूरणाद्भागे तीयादन् । (५. ३. ४८) द्वितीयो भागः द्वितीयः । तृतीयः ।