________________
पाणिनिसूत्रव्याख्या भट्टिकाव्ये -V. 23.
प्रत्यूचे राक्षसेन्द्ररतामाश्वसिहि विभेषि किम् ।
त्यज नक्तंचरि क्षोभ वाचाटे रावणो ह्यहम् ।। 1797 ॥ हे वाचाटे बहुभाषिणि ।
अस्मिन्नेव ग्रन्थे श्लो० 1360. वाचाटाः कृता वाचाटिताः । वाचाटशब्दात् तत्करोतीति ण्यन्ताकर्मणि क्तः । अनर्घराघवे-I. 11.
धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम् ।
नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ॥ 1798 ।। वाचालामुत्कृष्टभाषिणीमिति केचित् । 'आलजाटचौ (सू. 1931) इति योगविभागात्प्रशंसायामप्यालजाटचावित्याहुः ।
१९३२ । स्वामिन्नैश्वर्ये । (५. २. १२६) ऐश्वर्यवाचकात्स्वशब्दात् मत्वर्थे आमिनच् । स्वामी । अस्मिन्नेव ग्रन्थे श्लो० 974. स्वमस्यास्तीति स्वामी ईश्वरः । निपातः । अस्मिन्नेव ग्रन्थे श्लो० 1106 स्वामी।
१९३३ । अर्शआदिभ्योऽच् । (५. २. १२७)
अस्यिस्य विद्यन्ते अर्शसः । अर्शादिः-५. ३९. । आकृतिगणोऽयम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1201. कावाद ईषद्वादो वाकलहः । 'ईषदर्थे' (सू. 1081) इति कुशब्दस्य कादेशः । तद्वति कावादे । अच् ।
अस्मिन्नेव ग्रन्थे श्लो० 383. पीतं पानमस्यास्तीति पीतः । पीतवानित्यर्थः । मच् ।
१९३४ । द्वन्द्वोपतापगात्प्राणिस्थादिनिः । (५. २. १२८)