________________
५९४
पाणिनिसूलव्याख्या
चम्पूरामायणे - I. 47.
इति विविधरसाभिः कौशिकव्याहताभिः
श्रुतिपथमधुराभिः पावनीभिः कथाभिः ।
गलितगहनकृच्छ्रं गच्छतोर्दाशरथ्यो
स्समकुचदिव सद्यस्तादृशं मार्गदैर्घ्यम् ॥ 1755 ||
मधुराभिः । रः ।
अस्मिन्नेव ग्रन्थे लो० 1446. मुखरः ।
चम्पूभारते – IV. 74.
मुनिरेष यदाभ्ययाद्वराहं मुखरज्यालतिको जवाज्जिघांसुः । शबरो ददृशे तदाभिधावन् धनुराकृष्य सहानुयायिवर्णैः ॥ 1756 ॥
मुखरा शब्दायमाना ।
चम्पूरामायणे - I. 16.
ग—इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरित हरिन्मुखान् हरिहयप्रमुखानखि लानमरानरुणारुणतामरसविला सचोरैर्लोचनमरी चिसन्तानैरानन्दयन् अरविन्दलोचनः स्फुटम
भाषत ॥ 1757 ॥
मुखरितं मुखरं कृतम् । मुखरशब्दात् तत्करोती ण्यन्तात् कर्मणि क्तः । अस्मिन्नेव ग्रन्थे श्लो० 35. कुरुकुञ्जरः कुरुश्रेष्ठः । कुञ्जरो गजः ।
अस्मिन्नेव ग्रन्थे श्लो° 577. अनन्तकविकुञ्जरः ।
अस्मिन्नेव ग्रन्थे श्लो० 288. पाण्डुरम् । रप्रत्ययः ।
माघे—XVIII. 9.
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्या रोहैः कुञ्जराणां शिरांसि ||1758|
कुञ्जराणां गजानाम् ।
१९१५ । द्युभ्यां मः । (५, २. १०८ )