SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ पाणिनिलव्याख्या यावती: । तावतीः । वतुप् । 'उगितश्च ' (सू. 455 ) इति ङीप् । चम्पूभारते- VIII. 15. एतावतो बन्धुजनानिहत्य किं लब्धया कृष्ण भुवानया मे । सकन्दमूलानि सनिझराणि न किं ममाद्यापि वनानि तानि ।। 1691 ।। एतावतः बन्धुजनान् । १८४१ । किमिदम्भ्यां वो घः। (५. २. ४०) आभ्यां वतुप्स्यात् , वस्य च घः । कियान् । इयान् । नैषधे- I. 130. धिगस्तु तृष्णातरलीभवन्मन स्समीक्ष्य पक्षान्मम हेमजन्मनः । तवार्णवस्येव तुषारशीकरै र्भवेदमीभिः कमलोदयः कियान् ।। 1692 ।। कियान् । स्त्रियां कियती । 'उगितच' (सू. 455) इति डीम् । माघे-VIII. 70. स्वच्छाम्भस्स्स्नपनविधौतमङ्गमोष्ठ स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीया नाकरपो यदि कुसुमेषुणा न शून्यः । 1698 ।। इयान् एतावान् । १८४२ । किमः सङ्ख्यापरिमाणे डति च । (५. २. ४१) चाद्वतम् । तस्य च वस्य घः । काः सङ्ख्या येषां ते कति कियन्तः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy