SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ५६८ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 626 सम्पन्नतालः प्रमाणमस्य सम्पन्नताल द्वयसः । द्वयसच् । माघे—XII. 72. तत्पूर्वसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारत स्रुत स्वदानवास्प्रिचुरीकृतं पयः ॥ 1684 | अंसौ प्रमाणमस्यांसद्वयसम् । द्वयसच् । अस्मिन्नेव ग्रन्थे श्लो० 67 गजपतिः प्रमाणमासां गजपतिद्वयसीः । द्वयसच् । ‘टिड्ढाण् ' ( सू. 470 ) इति ङीप् । अस्मिन्नेव प्रन्थे श्लो० 68. गुल्फद्वयसीं गुरुफप्रमाणाम् । पूर्ववत् । माघे—VIII, 21. तिष्ठन्तं पयसि पुमांसमंसमाले तदनं तदवयती किलात्मनोऽपि । अभ्येतुं सुतनुरभीरियेष मौग्ध्या दाश्लेषि द्रुतममुना निमज्जतीति ॥1685 | 1 सः प्रमाणमस्य तद्दघ्नं तत्प्रमाणं । प्रमाणार्थे दघ्नच् । अंसौ प्रमाणमस्येत्यंसमात्रे अंसप्रमाणे | मात्रच् । 1 चम्पूभारते - V. 18. --- हरिपुं विनिवृत्तमवेक्ष्य तं हरिहयस्य सुरैस्सह तुष्यतः | नयनवारिभिरङ्गमनाप्लुतं न ददृशे तिलमात्रमपि स्वकम् || 1686 | तिलमात्रं तिलप्रमाणम् । मात्रच् । अस्मिन्नेव ग्रन्थे श्लो० 1681 त्रिदशगोपः इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः । मात्रच । ततः स्वार्थे कः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy