________________
९६६
शणिनिस्सूनव्याख्या
अस्मिन्नेव अन्ये श्लो० 1329. तरङ्गित सञ्जाततरङ्गम् । इतच् ।
चम्पूरामायणे-I. 103.
रामे बाहुबलं विवृण्वति धनुर्वशे गुणारोपणं ___ मा भूत्केवलमात्मना तिलकिते वंशेऽपि वैकर्तने । आकृष्टं नितशं तदेव न परं सीतामनोऽपि द्रुतं
भङ्गस्तस्य न केवलं क्षितिभुजां दोस्तम्भदम्भस्य च ॥ 1676 ।। तिलकिते सञ्जाततिलके। रघुवंशे-XI. 98.
अथ पथि गमयित्वा क्लप्तरम्योपकार्ये
कतिचिदवनिपालः शर्वरीश्शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शिनीनां
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ 1677 ॥ कुवलयानि येषां सञ्जालानि बुवलयिताः । इतच् । रघुवंशे---XII. 53.
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविग्नितः ॥ 1678 ।। विनितस्सञ्जातविनः । इतन् । अस्मिन्नेव ग्रन्थे श्लो० 232. विनितास्सञ्जातविघ्नाः । अस्मिन्नेव ग्रन्थे श्लो० 1342. घर्मितं सञ्जातधर्मम् । नैषधे-IV. 18.
हृदि दमस्वसुरश्रुझरप्लुते
प्रतिफलद्विरहात्तमुखानतेः । हृदयमाजमराजत चुम्बितुं
नलमुपेत्य किलागमितं मुखम् ॥ 1679 ॥ आगमितं सञ्जातागमनम् । इतन् ।