________________
पाणिनिसूत्रव्याख्या
6
उपत्यका
अस्मिन्नेव ग्रन्थे श्लो० 38. समुद्रस्योपत्यका आसन्ना | पर्वतासन्नवाचकेन आसनमा लक्ष्यते । पर्वतस्याधित्यका । लक्षणया उपरि स्थितेत्यर्थः । 'द्रेरासन्ना भूमिरूर्ध्वमधित्यका ' II. iii. 7. इत्यमरः । त्यकन्प्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 198. मोदगिरेरधित्यकाम् ।
५६४
१८३६ । कर्मणि घटोsठच् । ( ५.२.१३५ ) घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ।
भट्टिकाव्ये - I. 11.
ऐहिष्ट तं कारयितुं कृतात्मा
कर्तुं नृपः पुत्रफलं मुनीन्द्रम् ।
५. २६.
ज्ञाताशयस्तस्य ततो व्यतानी
त्स कर्मठः कर्म सुतानुबन्धि || 1669 ॥
कर्मसु घटते चेष्टते सम्यक् करोतीति कर्मठः कर्मशूरः । ' कर्मशूरस्तु कर्मठ: ' III. i. 18. इत्यमरः । अठच् । 'नस्तद्धिते ' ( सू. 679 ) इति टिलोपः ।
१८३७ । तदस्य सञ्जातं तारकादिभ्य इतच् । ( ५.२.३६ )
तारका सञ्जाता अस्य तारकितं नभः । आकृतिगणोऽयम् । तारकादि:
रघुवंशे - XV. 8.
अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी । यौवनस्थलीः पश्यन् पुष्पितास्सुरभीरभीः || 1670 ||
पुष्पाणि सञ्जातानि यासां ताः पुष्पिताः । इतच् ।
नैषधे -- III. 121.
यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते ।
अनं प्रदिना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव ॥ 1671 ॥