________________
पाणिनिसूत्रव्याख्या १६६५ । तस्मै हितम् । (५. १.५) वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हित शङ्कव्यं दारु । गव्यं इविष्यम् । 'हितयोगे' (वा. 1461. सु. 580) इति चतुर्थी ।
अस्मिन्नेव ग्रन्थे श्लो० 692. सवनाय हितः सवनीयः । तदर्थो वा सवनीयः । प्राक्क्रीतीयः छपत्ययः । तदीयानि सावनीयानि ।
अस्मिन्नेव अन्थे श्लो० 1032. कंसाय हितं कंसीयम् । छप्रत्ययः । अनघराघवे-II. 35.
प्रज्ञातब्रह्मतत्त्वोऽपि स्वर्गीयैरेष खेलति ।
गृहस्थसमयाचारप्रक्रान्तैः सप्तसन्तुभिः ॥ 1660 ।। स्वर्गीयैः स्वहितैः । छः।
१६६६ । शरीरावयवाद्यत् । (५. ४. ४)
दन्त्यम् । कण्ठयम् ।
वा । ननासिकायाः । ( 3497.)
नस्यम् । नाभ्यम् । हितार्थे यत् । 'शरीरावयवाञ्च' (सू. 1430) इति भवार्थे यत् । मूर्धन्यः । ' ये चाभावकर्मणोः' (सू. 1154) इति प्रकृतिभावः ।
१६६७ । ये च तद्धिते । ( ६. १. ६१ ) . यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः ।
वा० । वा केशेषु । ( 3493.) शीर्षण्याः, शिरस्या का केशाः ।
१६६८ । स्खलयवमाषतिलवृषब्रह्मणश्च । (५. १.७)
खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चादथ्यांग