________________
५०३
माघे XII, 76.
अव्याहृतक्षिप्रगतैस्समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः । नाव्यं पयः केचिदतारिषुर्भुजैः
पाणिनिसूत्रव्याख्या
क्षिपद्धिरूर्मीनपरैरिवोर्मिभि. ॥ 1531 ॥
नावा
ता नाव्यम् । ' नाव्यं त्रिलिङ नौतार्य ' I. ix. 10. इत्यमरः ।
रघुवंशे - IV. 31.
मरुपृष्ठान्युदम्भांसि नाव्यात्सुतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्वाच्चकार सः || 1532 ॥
नौभिस्तार्या नाव्याः । यत् ।
नैषधे - I. 56.
अथ श्रिया भसितमत्स्यलाञ्छनः समं वयस्यैः स्वरहस्यवेदिभिः । पुरोपकण्ठोपवनं किलेक्षिता
दिदेश यानाय निदेशकारिणः ॥ 1533 ||
वयसा तुल्या वयस्याः स्निग्धाः । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 107. वयसा तुझ्या वयस्या ।
१६४४ | धर्मपथ्यर्थन्यायादनपेते । (४ ४ ९२ )
•
धर्मादनपेतं धर्म्यम् । पथ्यम् | अर्थ्यम् । न्याय्यम् ।
भट्टिकाव्ये - VI. 24.
तथापि क्रियां धर्म्यं स कालेनामुचत्कचित् । महतां हि किया नित्या छिद्रे नैवावसीदति ॥ 1534
धर्म्या धर्मादनपेताम् । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 106. धर्म्या |