________________
५०२
पाणिनिलूत्रव्याख्या १६२० । तत्र नियुक्तः । (४. ४. ६९) इति ठक् । आकरे नियुक्तः आकरिकः । अनर्घराघवे-VI. 18.
ग-अथ वत्स, गोपुरगौल्मिकबलाध्यक्षेण वत्सेन नरान्तकेन किं प्रतिपन्नम् ।। 1526 ॥
गुल्मस्सेना, घट्ट वा । तत्र नियुक्तो गौल्मिकः । ठक् ।
अस्मिन्नेव ग्रन्थे श्लो. 1426. दौवारिकाः द्वारे नियुक्ताः । ठक् । 'द्वारादीनाम् । (सू. 1886 ) इत्यैच् ।
अस्मिन्नेव ग्रन्थे श्लो. 75. द्वारे नियुक्ता दौवारिकी । ठक। ऐजागमः । 'टिड्ढाणञ्' (सू. 470 ) इति ङीप् ।
१६२१ । अगारान्ताट्ठन् । (४. ४.७०)
देवागारे नियुक्तो दैवागारिकः ।
१६२४ । निकटे वसति । (४. ४. ७३) नैकटिको भिक्षुः ।
अस्मिन्नेव ग्रन्थे श्लो. 860. ग्रामस्यान्तिके क्रोशमानं त्यक्त्वा यतयो ये निवसन्ति ते नैकटिकाः । ठक् ।
१६२५ । आवसथात्ष्ठल् । ( ४. ४. ७४) आवसथे वसति आवसथिकः । पित्वान्ङीष् । आवसथिकी ।
॥ इति ठगधिकारप्रकरणम् ।।