SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४२० पाणिनिसूत्रव्याख्या सौखप्रसुप्तिकमधुव्रतचक्रवाल वाचालपङ्कजवनीसरसाः सरस्यः || 1502 || सौरवप्रसुतिकाः । पूर्ववत् । १५५० | तेन दीव्यति खनति जयति जितम् । ( ४. ४.२ ) अदीव्यति आक्षिकः । अभ्र्या खनति आम्रिकः । हलेन खनति हालिकः । "सैरिकः । मक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् । अनर्घराघवे - IV. 4. ------ अयं मृदुमृणालिनीवनविलास वैहासिक स्त्विषां वितपते पतिस्सपदि दृश्यमाना निजाः । स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्ययितवृत्तयो घुसृणपङ्कपत्राङ्कुराः ॥ 1503 || विहासो विहसितम् । तेन दीव्यतीति वैहासिकः । ठक् 1 १५५१ | संस्कृतम् । ( ४. ४. ३) दध्ना संस्कृतं दाधिकम् । मारीचिकम् । १५५३ । तरति । ( ४. ४. ५ ) उडुपेन तरति औडुपिकः । गौपुच्छिकः । १५५४ | गोपुच्छाट्ठञ् । (४. ४. ६ ) १५५५ । नौ द्वयचष्ठन् । ( ४. ४.७ ) नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । १५५६ । चरति । ( ४. ४, ८ ) चर गतिभक्षणयोः । तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोः ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दघ्ना भक्षयति दाधिकः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy