________________
॥ अथ ठगधिकारप्रकरणम् ॥
१५४८ । प्राग्वहतोष्टक् । (४. ४. १) तबहतीत्यतः प्राक् ठगधिक्रियते ।
वा० । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । ( 2951.) माशब्दादि:- ४. ८६. अनर्घराघवे-IV. 50.
ग-आः पाप दुर्मुख वसिष्ठ इव विश्वामित्र इव स्वस्तिवाचनिको ब्राह्मणस्ते परशुरामः ।। 1498 ॥
स्वस्तिवाचनमाह स्वस्तिवाचनिकः । ठक् । 'उत्तरपदस्य ' (सू. 1396) इति वृद्धिः।
१५४९ । स्वागतादीनां च । (७. ३. ७) ऐचं न स्यात् । स्वागतमित्याह स्वागतिकः । स्वागतादिः- ७. ३.
वा० । आहौ प्रभूतादिभ्यः । (2952.) प्रभूतमाह प्राभूतिकः । प्रभूतादि:- १. ८७.
वा० । पृच्छतौ सुनातादिभ्यः । ( 2953.) सुखातं पृच्छति सौनातिकः । सौखशायनिकः । सुनातादिः- ४. ८८.
वा० । गच्छतौ परदारादिभ्यः । ( 2954.) पारदारिकः । गौरुतल्पिकः । परदारादि:- ४. ८९. रघुवंशे-VI. 61.
विन्ध्यस्य संस्तम्भयिता महादेः
निश्शेषपीतोज्झितसिन्धुराजः ।