________________
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 1288. सौरसैन्धवे सुरसिन्धुसम्बन्धिनि ।' तस्येदम् '
(सू. 1549 ) इत्यणि उभयपदवृद्धिः । ' हृद्भगसिन्धु ' ( सू. 1183 ) इत्युभयपदवृद्धिः ।
ક
रघुवंशे – X. 14.
योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादनुगृह्वन्तं सौखशायनिकानृषीन् ॥ 1461 ||
सुखशयनं पृच्छन्तीति सौखशायनिकाः । ' पृच्छतौ ' ( वा. 2958, सू. 1549.) इति ठक् । अनेनोभयपदवृद्धिः ।
रघुवंशे - VIII. 26.
अकरोच्च तदौर्ध्वदेहिकं पितृभक्त या पितृकार्य कल्पवित् ।
न हि तेन तथा तनुत्यजः
वनयावर्जितपिण्डकाङ्क्षिणः ॥ 1462 ॥
और्ध्वदेहिकं देहादूर्ध्वं भवतीति तंचिलोदकपिण्डदानादिकम् । 'ऊर्ध्वदेहाचेति वक्तव्य ' मिति ठक् । अनेनोभयपदवृद्धिः ।
चम्पूरामायणे – II. 72.
-
ग - अथ यथा विधिविहितौर्ध्वदेहिकं गमितचतुर्दशदिवसं दिवसकर कुलहितेन पुरोहितेन नगरवृद्धैश्व सार्धं अमात्याः समुपेत्य मकुटभरणाय प्रार्थयामासुः || 1463 ॥
और्ध्वदेहिकम् । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 80. और्ध्वदैहिकीम् । पूर्ववत् । ' टिड्ढाणञ् ' ( सू. 470 ) इत्यादिना ङीप् ।
राघवे - V. 32.
दृप्यत्पौलस्त्मकण्डूभिदुरभुजभरोष्मायमाणः कपीन्द्रो
नाये नस्सन्दधीत क्वचिदपि हि विधौ नैव साहाय्यकामः |