SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पाणिनिम्नव्याख्या मस्मिन्नेव ग्रन्थे श्लो० 1165. जम्ब्वाः फलं जम्बु । 'जम्ब्वा वा' (सू. 1644 ) इत्यणभावपझेऽनि ‘फले लुक् ' (सू. 1541 ) इति लुक् । अनेन स्त्रीप्रत्ययनिवृत्तिः । अस्मिन्नेव ग्रन्थे श्लो० 971. अलावा विकारः फलमलाबु । ओरन् । 'फले लुक् ' (सू. 1641) इति लुक् । अनेन स्त्रीप्रत्ययनिवृत्तिः । __ अस्मिन्नव ग्रन्थे श्लो० 1439. उदक् । उदीची दिशम् । उदीचीशब्दात्प्रथमान्तात् “दिकशब्देभ्यः' (सू. 1974) इत्यस्तातिप्रत्यये 'अञ्चेर्लुक (सू. 1980) इति लुकि अनेन स्त्रीमत्ययस्यापि लुक् । भट्टिकाव्ये-XIV. 16. प्रययाविन्द्रजित्प्रत्यगियाय स्वयमुत्तरम् । समध्यासिसिषाञ्चके विरूपाक्षः पुरोदरम् ॥ 1448 ।। प्रत्यक् । पूर्ववत् । माघे-VI. 34. द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्टनया दिवः .. कृशशिखं शशिखण्डमिव च्युतम् ।। 1449 ।। . केतक्याः पुष्प केतकम् । 'पुष्प' (वा. 2950. सू. 1545 ) इत्यर्ण लुकि अनेन स्त्रीप्रत्ययस्यापि लुक् । १४१३ । कृतलब्धक्रीतकुशलाः । (४. ३. ३८.) ततेत्येव । सुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौनः । १४१५ । उपजानूपकर्णोपनीवेष्ठक् । (४. ३, ४०) औपजानुकः । औपकर्णिकः । औपनीविकः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy