________________
पाणिनिसूत्रव्याख्या वा० । हरिद्रामहारजनाभ्यामञ् । ( 2682.) हारिद्रम् । माहारजनम् । भट्टिकान्ये---V. 62.
कमण्डलुकपालेन शिरसा च मृजावता ।
संवस्य लाक्षिके वस्त्रे मात्रः सम्भाण्ड्य दण्डवान् ।। 1321 ! लाक्षया रक्ते लाक्षिके । अनेन ठक् । किरातार्जुनीये--V. 45. क्षिपति योऽनुवन विततां बृह
बृहतिकामिव रोचनिकी रुचम् । अयमनेकहिरण्मयकन्दर
स्तव पितुर्दयितो जगतीघरः ।। 1322 ।। रोचनया रक्तां रौचनिकीम् । अनेन ठक् । 'टिड्ढाणम् ' (सू. 470 ) इति डीप् । किरातार्जुनीये--X. 4.
सरमसमवलम्ब्य नीलमन्या
विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव
च्युतरशनागुणसन्दितावतस्थे ।। 1823 !! नील्या रक्तं नीलम् । नील्या अन् । अन्तरीयम् ।
१२०४ । नक्षत्रेण युक्तः कालः । (४. २. ३) पुष्येण युक्तं पौषमहः । पौषी रात्रिः । नक्षत्रे च लुपि' (सू. 642 ) इति
तृतीयासप्तम्यौ।
मस्मिन्नेव अन्ये श्लो० 139. पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । 'पुष्ययुक्ता पौर्णमासी पौषी' I. iii. 14. इत्यमरः। अनेनाण् । 'टिड्ढाणञ्' (सू. 470) इति डीप् ।