________________
पाणिनिसूत्रन्याख्या
कम्बोजादिः-४. २४. चोलः । शकः । द्वयलक्षणस्यानो लुक । केरलः । यवनः । अञो लुक्। रघुवंशे-IV. 69.
कम्बोजास्समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानपरिक्लिष्टरकोलर सार्वमानताः ।। १३१८ ॥ कम्बोजा राजानः । कम्बोजास्समरे इति पाठम्युगमः । दीर्घपाठे तु कम्योजोऽभिजनो येषामित्यर्थः । सिन्ध्वादित्वादण । अत्र न लुक् ।
मस्मिन्नेव ग्रन्थे श्लो० 1313. चोलम् । 'द्वयमगध' (सू. 1188 ) इत्या । कम्बोजादित्वालुक् ।
१२०० । क्रोडयादिभ्यश्च । (४.१.८०)
स्त्रियां प्यङ्प्रत्ययः स्यात् । क्रौड्यादिः-४. ६०. यश्चाप्' (सू. 528 ) कौड्या , व्याड्या।
(ग. सू.) 'सूत्युवस्याम् ' 55. सूत्या। (ग. सू.) 'भोजक्षत्रिये 56. भोज्या।
अस्मिन्नेव पन्थे श्लो० 75. भोजस्य राज्ञोऽपत्यां स्त्रिय भोज्याम् इन्दुमतीम् । ' क्रौड्यादिभ्यश्च' (सू. 1200) इत्यत्र ‘भोजक्षत्रिय' इत्युपसङ्ख्यानात् व्यङ्मत्ययः । 'यश्चाप्' (सु. 528 ) इति चाम् ।
॥ इति अपत्याधिकारप्रकरणम् ॥