________________
२८
पाणिनिसूनव्याख्या अप्येष प्रतनूभवत्यतिथिभिः सोच्छासनासापुटै
रापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्मानिलः ।। 124 ||
उत्तररामचरिते-- IV. 2.
ग-समांसो मधुपर्क इत्याम्नाय बहुमन्यमानाः श्रोत्रियायाभ्यगताय वत्सतरी महोक्ष वा महाजं वा पचन्ति गृहमेधिन इति हि धर्मसूत्रकाराः समामनन्ति ॥ 125 ।।
वत्सतरी । वर्षद्वयवयस्का गौः । ष्टरच । 'महोक्ष वा वत्सतरी दद्यादतिथये गृही' इति स्मृतेः।
माघ-VII. 48.
मृदुचरणलताग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरि निरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ 126 ॥
न सहत इत्यसहा । अतिशयेनासहासहतरा । अयं तर प्रत्ययः । अतष्टाए । 'बहुव्रीहौ सक्थ्यक्ष्णोः' (सू. 852 ) इति पच् । माघे---VIII. 6.
संस्पर्शप्रभवसुखोपचीयमाने
सर्वाङ्गे करतललगवल्लभायाः। कौशेयं व्रजदपि गाढतामजसं
सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥ 127 ।। नीरजे इव अक्षिणी यस्याः सा नीरजाक्षी । पित्करणात् डीप 'चित्करणादीकारो बहुलमिति वामनवचनाद्वैकल्पिकः । भट्टिकाव्ये-X. 50.
अथ ददृशुरुदीर्णधूमधून
दिशमुदधिव्यवधि समेतसीताम् । सहरघुतनयाः प्लवक्सेनाः
पवनसुताङ्गुलिदर्शितामुदक्षाः ॥ 128 ।। उद्गते अक्षिणी यासां ता उदक्षाः । अत्र न डीए ।