________________
स्त्रीप्रत्याप्रकरणम्
अस्मिन्नेव ग्रन्थे लो० 36. शर्वरी ।
पृथे. षिवन् । पृथिवी । षवन्नित्येके । पृथवी । ' पृथवी पृथिवी पृथ्वी ' इति शब्दार्णवः । माघे --III. 34.
कृताम्पदा भूभिभृतां सहस्रैरुइन्वदम्भः परिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ।। 119 ।। पृथुः पृथ्वी । ‘बोतो गुणवचनात् ' ( सू. 502 ) इति ङीष् । 'जल्पभिक्ष' (सू. 3135 ) इति पाकन् । भट्टिकाव्ये- VII. 19.
जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वया ।
गत्वा लक्ष्मण वक्तव्यो जयिना निष्ठुरं वचः ॥ 120 ॥ अनघराघवे - IT. 77. त्रिभुवगतमोलुण्टाकीनामहोमिहिरत्विषा
मभिविधिरसौ कोकश्रेणीमनस्यवशिष्यते । क्षुधमपि तमःकोपादन्तः प्रविश्य विनिम्नतः
शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः ॥ 121 ।। 'शिल्पिनि प्बुन् ' (सू. 2907 ) इति प्बुन्प्रत्ययः नृत्तिख निरलिभ्य एव ।
रघुवंशे-- XIX. 14
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलपिनी: पार्थवर्तिषु गुरुष्वलज्जयत् ॥ 122 ॥ किरातार्जुनीये-X, 41.
प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथममुपहित विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ 128 ॥ 'वत्सोक्षाश्व ' (सू. 2046) इति टरच् । अनघराघवे-~-II. 14.
तत्तादृक्तृणपूलकोपनयनक्लेशाचिरद्वेषिभि
मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमालभ्यते ।