________________
॥ अथापत्याधिकारप्रकरणम् ||
१०७९ । स्त्रीपुंसाभ्यां नञ्ञौ भवनात् । (४. १.८७ )
'धान्यानां भवने ' ( सू 1802 ) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमात् नौ स्तः । स्त्रैणः पौत्रः । भवभावसम्बन्धसमूह हितार्थादिषु ।
1
अस्मिन्नव प्रन्थे श्लो० 85. स्त्रीषु भवाः स्त्रैणाः । स्त्रैणाश्व ता गिरश्व स्त्रैण। भवार्थे नञ् ा यद्वा स्त्रीणां समूहः लैगम् । समूहार्थे नञ् । तस्य गिरः |
चम्पूरामायणे - VI. 64.
ग—ततस्तं वल्लोऽपि स्त्रैणसमुचितेन कष्टस्वरेण मृदुलमेवं जगाद |1126011 स्त्रैणस्य स्त्रीभावस्य समुचितेन । भावार्थे नञ् ।
1
भट्टिकाव्ये - III. 7.
कर्णे जपैरा हितराज्यलोभा
स्त्रैणेन नीता विकृतिं लघिन्ना ।
रामप्रवासे व्यमृशन्न दोषं
जनापवादं सनरेन्द्रमृत्युम् | 1261 ॥
स्वैणेन स्त्रीसम्बन्धिना लघिन्ना । सम्बन्धायें नञ् ।
अनघराघवे - II. 67.
पूषा वसिष्ठः कुशिकात्मजोऽयं
त्रयस्त एते गुरवो रघूणाम् ।
महामुनेरस्य गिरा कृतोऽपि
स्त्रैणो वधो मां न सुखाकरोति ॥ 1262 ॥
स्त्रैणः स्त्रीसम्बन्धी वधः । पूर्ववत् नञ् ।