________________
समासाश्रयविधिप्रकरणम्
माघे-VI. 6. स्मरहुताशनमुर्मुरचूर्णतां
दधुरिवाम्ररणस्य रजःकणाः । निपतिताः परितः पथिकवजान्
___ उपरि ते परितेपुरतो भृशम् ।। 1242 !! आम्रवणस्य । अनेन णत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 997- शरा बाणतृणानि । तेषां वनं शरवणम् । अनेन णत्वम् ।।
१०५१ । विभाषौपधिवनस्पतिभ्यः । (८. ४. ६) एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् दुर्वावनम् । शिरीषवणम् शिरीषवनम् ।
वा० । यच्च्यभ्यामेव : ₹ 4984.) नेह । देवदारुवनम् ।
वा० । इरिकादिभ्यः प्रतिषेधो वक्तव्यः । ( 4985.) इरिकादि:-८. ९. इरिकावनम् । मिरिकावनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1241. देवदारूणां वनं देवदारुवनम् । यच् इति नियामादिह चतुरक्षराद्वननकारस्य णत्वाभावः ।
१०५२ । वाहनमाहितात् । (८. ४. ८) आरोप्यं यदुह्यते तद्वाचिस्थानिमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात्किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः। वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् ।
अस्मिन्नव ग्रन्थे श्लो० 720. रोषस्य वाहनं रोषवाहणम् । रोषाश्रयमतिरुष्टमित्यर्थः । णत्वम् । माघे-XII. 34.
आगच्छतोऽनूचि गजस्य घण्टयोः
स्वनं समाकर्ण्य समाकुलाङ्गनाः ।
48