________________
स्त्रीमत्ययाकरणम्
भट्टिकाव्ये-V. 22.
नैवेन्द्राणी न रुद्राणी न मनावी न रोहिणी । वरुणानी न नामायी तस्याः सीमन्तिनी समा ॥ 111 ॥
४९५ । मनोरौ वा । (४. १. ३८) मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा। ताभ्यां सन्नियोगशिष्टो ङीय च । मनोः स्त्री मनायी मनावी मनुः ।
अस्मिन्नव ग्रन्थे श्लो० 111. मनावी ।
४९६ । वर्णादनुदात्तातोपधात्तो नः । (४. १. ३९) इति विकल्पः डीप, तकारस्य च नकारः । माधे-XVII. 18. विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः । क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजित् गज इव गैरिकारुणः ।। 112 ॥ लोहिनी लोहिता । किरातार्जुनीये--V. 31.
नीतोच्छ्रायं मुहुरशिशिररश्मेरुलै
रानीलाभैविरचितपरभागा रलैः । ज्योत्स्नाशकामिह वितरति हंसश्येनी
मध्येऽप्यह्नः स्फटिकरजतभितिच्छाया ।। 113 ॥ श्येनी श्वेतवर्णा । 'विशदश्येतपाण्डरा' I. iv. 12. इत्यमरः । श्येतशब्दात् डीप । तकारस्य च नकारः ।
अस्मिन्नेव ग्रन्थे श्लो० 111. रोहिणी चन्द्रभार्या । रोहितशब्दात् ङीप् , तकारस्य नकारश्च ।
वा० । पिशङ्गादुपसङ्ख्यानम् । (2456)