________________
पाणिनिसूत्रव्याख्या
पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः गृहपनी । बहुव्रीहावपि दृढपत्नी दृढपतिः । सपूर्वस्य किम् ? गवां पतिः स्त्री। भट्टिकाव्ये-X. 38.
तस्याधिकासे तनुरुत्सुकासौ दृष्टा मया रामपतिः प्रमन्युः । कार्यस्य सारोऽयमुदीरितो वः प्रोक्तेन शेषेण किमुद्धतेन ।। 108
रामः पतिर्यस्याः सा रामपतिः । नकाराभावपक्षः ।
४९२ । नित्यं सपत्नचादिषु । (४. १. ३५) सपल्यादिः. ४.३. समानस्य सभावोऽपि निपात्यते। समानः पर्तियन्याः सः सपली । एकपत्नी, वीरपत्नी।
माघे-~-VII. 59. समदनमवतसितेऽधिकर्ण प्रणयवता कुसुमे सुमध्यमायाः ।
जदपि लघुता बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ 1992 अस्मिन्नेव ग्रन्थे श्लो० 22. सपत्न्याः ।।
४९३. । पूतक्रतोरै च । (४. १. ३६) अस्य स्त्रियाम् ऐ आदेशो डीप् च । इयं त्रिसूत्री पुयोग एवेष्यते । पूतकतोः स्त्री पूतक्रतायी। भट्टिकाव्ये --V. 28.
हृतरत्नश्चयतोद्योगो रक्षोभ्यः करदो दिवि ।
पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित् ।। 1108 ४९४. । वृषाकप्यनिकुसितकुसिदानामुदात्तः (४. १. ३७)
एषामुदात्त ऐ आदेशः स्यात् ङीप च । वृषाकपेः स्त्री वृषाकपायी। 'हरविष्णू वृषाकपी' III. iii. 130. इत्यमरः । 'वृषाकपायी श्रीगौर्यो:' III. iii. 156, इति च । अमायी ।