________________
पाणि तिसृत व्याख्या
कुलिशस्य सस्य मूर्धन्यः स्त् समाले । अङ्गुलिषङ्गः । समासे किम् ।
टेस्मनः ।
२६३
भट्टिकाव्ये - IX.8.
गतममुलिपकत्वं भीरुष्ठानादिहागतम् ।
खादिष्याम इति प्रोचुर्नयन्तो मारुतिं द्विषः || 1199 ॥
मलिषु सहो यस्य सोऽङ्गुलिषङ्गः । अनेन षत्वम् ।
१०२० | भीगे: स्थानम् । ( ८. ३.८१. ) भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु
भीरोः स्थानम् ।
सक्तिन्नेव क्र्त्थे श्लो० 1199. भीरुणां स्थान भीरुष्ठानम् | षत्वम् !
१०२१ | ज्योतिरायुषः स्तोमः । ( ८.३.८३ )
साभ्यां सोमस्य सस्य नूर्धन्यस्समासे । ज्योतिष्टोमः | आयुष्टोमः । अस्मिन्नेव ग्रन्थे श्लो० 1056. ज्योतिष्टोमादिषु क्रतुषु । षत्वम् ।
अर्धरात्रे - VII. 62.
प्राणायामोपदेष्टा सरसिरुहवने यौवनोन्मादलीला
गोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः प्रातराशः । कामायुष्टोमयज्वा शमितकुमुदिनी मौनमुद्रानुरागः शृङ्गाराद्वैतवादी विभवति भगवानेष पीयूषभानुः ॥ 1200 ॥
कामस्याष्टोमः आयुर्वर्धको यागः । तस्य यज्वा कर्ता ।
१०२२ । सुषामादिषु च । ( ८. ३.९८ . )
सस्य मूर्धन्यः । सुषामादिः - ८. ७. शोभनं साम यस्य सः सुषामा । सुषन्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 28. शोभनं साम सान्त्वं यस्यास्तां सुषाम्नीम् । 'अन उपधालोपिनोऽन्यतरस्याम् ' (सु. 462 ) इति ङीप् ।