________________
३५२
पाणिनिसूत्रव्याख्या
अयोधनेनाय इवाभितप्तं
वैदेहिबन्धोर्हृदयं विद्रे ।। 1167 ।। वैदेह्या बन्धुः वैदेहिबन्धुः इति हवः । भट्टिकाव्ये--XII. 86.
इति वचनमसौ रजनिचरपति
बहुगुणमसकृत्मसममभिदधत् । निरगमदभयः पुरुषरिपुपुरात्
नरपतिचरणौ नवितुम रिनुतौ ।। 1168 ।। रजनिचर इति ड्यापोरिति संज्ञायां ह्रस्वत्वमिति जयमङ्गलः । 'अर्तिम' (उ. सू. 259.) इत्यनिप्रत्यये रजनिः इकारान्त एव । चम्पूरामायणे--VI. 12. रहस्तदानी रजनीचरेन्द्रः
प्रहस्तमुख्यानिदमावभाषे । इदं तु मे वाञ्छितमीक्षितं वो
वदन्तु यद्वैरिजनोचितं नः ।। 1169 ।। 'कृदिकारादक्तिनः' (ग. सू. 50) इति कृदन्तस्य इकारान्तस्त्रीलिङ्गस्य च स्ननिशब्दस्य रजनी इति ईकारः। रघुवंशव्याख्यायां सञ्जीविन्याम् उपोद्धाते--6.
कालिदासगिरां सारं
कालिदासः सरस्वती। चतुर्मुखोऽथवा साक्षा
द्विदुर्नान्ये तु मादृशाः ॥ 1170 ॥ काल्या दासः कालिदासः । कालीशब्दस्य हवः ।
१००२ । त्वे च । (६. ३. ६४) त्वप्रत्यये ड्यापोर्वा हस्वः । अनत्वम् अजात्वम् । रोहिणित्वम् रोहिणीत्वम् ।