________________
स्त्रीप्रत्ययप्रकरणम्
इति डीप् । रघुवंशे-XII. 31.
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिस्तस्थौ विन्ध्यादिः प्रकृताविव ॥ 96 ॥ पश्चानां बटानां समाहारः पञ्चवटी । तद्धितार्थेति' (सू. 728.) तत्पुरुषः । 'सङ्ख्यापूधो द्विगुरिति (सू . '730.) द्विगुसंज्ञा । 'द्विगुरेकवचन मिति (सू. 781.) एकवचनम् । चम्पूरामायणे---- IV. 18.
नाहं सुकेतुतनया न च सप्तसाली ___ वाली न च त्रिभुवनप्रथितप्रभावः । तारास्मि वज्रहृदया विशिखैरभेया
धन्वी कथं भवसि राघव मामविध्वा ॥ 97 ॥ सप्तानां सालानां समाहारः सप्तसाली । त्रयाणां भुवनानां समाहारः त्रिभुवनम् ।
४८३ । ऊधसोऽनङ् । (५. ४, १३१) ऊयोऽन्तस्य बहुव्रीहेरन्डादेशः स्यात्स्त्रियाम् ।
४८४ । वहुवीहेरूघसो डीम् । (४. १. २५) ऊधोऽन्ताबहुव्रीहेडींष् स्यात्स्त्रियाम् । रघुबशे-II. 49.
अथैकधेनरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य मन्युभविता विनेतुं गाः कोटिशः स्पर्शयता घटोनीः ।।8।। घटा इवोधांसि यासां ता घटोनयः । स्त्रियां किम् ? किरातार्जुनीये--IV. 10. .
उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरोधसः ॥ 99 ।।