________________
पाणिनिसूत्रव्याख्या
___लावण्यं कान्तिविशेषोऽस्यास्तीति लावणिकम् । लावण्यवत् । 'अत इनिटनो (सू. 1922.) इति ठन्प्रत्यये इकादेशः । ' यम्येति च ' ( सू. 311 ) इति लोये 'हलस्तद्धितस्य' (सू. 472.) इति यकारलोपः । अन्यत्र तु लवण पण्यमस्येति लावणिकः । लवणव्यवहारी । 'लवणा' (सू. 1803 ) ।
४७८. । वयसि प्रथमे । (४. १. . ० ) रघुवंशे-VI. 20.
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक् सन्निकर्ष मगधेवरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥ 9212 वा० वयस्यचरम इति वाच्यम् । ( 2486)
चम्पूरामायणे-V. 57.
रक्षःस्त्रीवदनारविन्दरजनी विश्वम्भरावहिणी
वर्षारम्भदशां दशाननयशःकादम्बकादम्बिनीम् । . वैधव्योचितवेषनिश्चितमनोलकाबटीजटां
वैदेशास्त्रिजटासमां समकिरद्धयां हनुमान्दिवि ॥ 981 क्षूटचिरण्डशब्दौ यौवनवाचिनौ । 'अचरम ' इति निषेधान्न ङीप् । माघे-IV. 29.
असमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुमतामगम्यरूपाः परिणतदिकरिकास्तटीर्बिभर्ति ।। 941 कन्याया न । 'कन्यायाः कनीन चेति (सू . 1119 ) निर्देशात् ।
विश्वझुणादशैं--- 394
पीताम्बरालंकृतमध्यभागा कल्हारमालाकमनीयवेणी। सह्याद्रिकन्या जनकस्य गेहात्पत्युः समी व्रजति प्रसन्ना ॥ 95 ॥
४७९ । द्विगोः। (४. १. २१)