________________
द्वन्द्वसमासप्रकरणम्
भट्टिकाव्ये-~XV. 42.
ते व्यरासिषुराहन्त राक्षसं चाप्यविप्लवन् । अबभासन्स्वकां शक्तिं गुमशैलं व्यकारिषुः ।। 1039 ।।
९११ । विशिष्टलिङ्गो नदीदेशोऽग्रामाः । (२. ४. ७)
ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्धयश्वेरावती च उद्धयेरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्व कुरुक्षेत्रं च कुरुकुरक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् शालकिनी ग्रामः जाम्बवशालकिन्यौ ।
९१३ । येषां च विरोधः शाश्वतिकः । (२. ४. ९) एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकम् ।
अस्मिन्नेव ग्रन्थे श्लो० 230. देवाश्चासुराश्च देवासुरास्तैर्देवासुरैः। नैककद्भावः । एषां यतः कार्यत एव विरोधो , न गोव्याघ्रादिवत् शाश्वतिकः ।
९१५ । गवाश्वप्रभृतीनि च । ( २. ४. ११)
यथोच्चरितानि साधूनि स्युः । गवाश्वम् दासीदासम् इत्यादि ।
गवाश्वादिः-२. १६. अस्मिन्नेव ग्रन्थे श्लो० 735. मांसशोणितम् । अस्मिन्नेव ग्रन्थे श्लो० 1035. मांसशोणितम् ।
९१६ । विभाषा वृक्षमृगतृणधान्यव्यजनपशुशकुन्यश्वबडवपूर्वापराधरोत्तरा
णाम् । (२. ४. १२)
वृक्षादीनां सप्तानां द्वन्द्वः अश्वबडवेत्यादि द्वन्द्वत्रय च प्राग्वद्वा । प्लक्षन्यग्रोधम् सक्षन्यग्रोधाः । रुरुपृषतम् रुरुपृषताः । कुशकाशं कुशकाशाः । व्रीहियवम् व्रीहि