SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ द्वन्द्वसमासप्रकरणम् भट्टिकाव्ये --III. 5. ऊर्जस्वलं हस्तितुरङ्गमेत दमूनि रत्नानि च राजभाजि । राजन्यक चैतदहं क्षितीन्द्र स्त्वयि स्थिते स्यानिति शान्तमेतत् ।। 1033 ।। हस्तिनश्च तुरङ्गाश्च हस्तितुरङ्गम् । सेनाङ्गत्वादेकवद्भावः । भट्टिकाव्ये -IV. 40. तौ चतुर्दशसाहस्रबलौ निर्ययतस्ततः । पारश्वधिकधानुष्कशाक्तीकप्रासिकान्वितौ ।। 1034 !! पारश्वधिकधानुष्कशाक्तीकप्रासिकम् । सेनाङ्गत्वादेकवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 690. नागेन्द्ररथाश्वम् । सेनाङ्गत्वादेकवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 786. रथवाजीति द्वन्द्वैकवद्भावः । तेन सहिता नागा इति शाकपार्थिवादित्वात्समासः । अन्यथा एकवद्भावः स्यात् । ९१० । जातिरप्राणिनाम् । ( २. ४. ६.) प्राणिवर्जजातिवाचिनां द्वन्द्व एकवत्स्यात् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यविशेषविवक्षायां तु बदरामलकानि । भट्टिकाव्ये-VIII. 30. * तां विप्रवदमानैरैत्संयुक्तां ब्रह्मराक्षसैः । तथावगिरमाणैश्च पिशाचैर्मासशोणितम् ।। 1035 || मांसानि शोणितानि च मांसशोणितम् ।द्वद्वैकवद्भावः । गवाश्वादित्वात्साधुः। मस्मिन्नेव ग्रन्थे श्लो० 333. पुष्पाणि च फलानि च पुष्पफलम् । एकवद्भावः । * “ ऐद्विप्रवदमानस्तां संयुक्तां ब्रह्मराक्षसैः” इति पाठान्तरम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy